Sunday, February 6, 2011

Sandeha alankaara (सन्देह)

सन्देह (Sandeha alankara)

Definition:
सम्भावनानिश्चयान्यतरभिन्ना मनोरमा ।
सादृश्यहेतुका बुद्धिस्सन्देहालंकृतिर्मता ॥

when there is confusion and there is beautiful possibility because of similarity, it is known as Sandeha alankara.

There are three types of Sandeha alankara

1.शुद्ध
2.निश्चयगर्भ
3.निश्चयान्त


1.शुद्ध

किंनु तुषारासारः किं घनसारः किममृतसारो वा ।
शमयति यदिदं क्लममिति समशायि जनैर्हरेर्दृशो विषयैः ॥

here there is no conclusion at the end or in the middle. It is pure Sandeha alankara.



1(a)विषयिणां संदिह्यमानत्वे

तारासारांशो वा तटिल्लतौघस्फुटोल्लसच्छ्रीर्वा ।
इति मुररिपुहृदयगतां वीक्ष्याब्धिसुतां जनेन संदिदिहे ॥



1(b)विषयविषयिणोः संदिह्यमानत्वे

किं नखरुचिवलयं ज्वलदथवा दोस्तेजसां शिखावलयम्‌ ।
अरुणरुचि हरिकराब्जे निरुपममेतच्चकास्ति चक्रं वा ॥
Here there is Sandeha of not only the vishayin - nakharuchivalaya etc but also of the vishaya - chakra.

हरितो ध्यैष्ट गिरिः किं गिरितो वा हरिरिदं महौन्नत्यम्‌ ।
सर्वोन्नतावुभवपि दर्वीकरशैलतदधिपौ भवतः ॥



2. निश्चयगर्भः
In this kind of Sandeha, the starting is by confusion, in the middle there is some certainty, and at the end there is again confusion.

example:
किमियं गङ्गा न हरेर्मुखे भवेत्साsथवा किमु ज्योत्स्ना ।
साsपि तथैवेति जनाश्श्रीपतिहसितं विलोक्य संदिहते ॥


3. निश्चयान्तः
In this kind of sandeha, the confusion is ultimately cleared off by the certainty.
Therefore it is known as Nishchayaanta

जलदभ्रमेण लग्ना तटिन्नु गगनभ्रमान्नु चन्द्रकला ।
इति संशय्य हरिस्तां स्मयमानां हृदि विनिश्चिनोति रमाम्‌ ॥


3(a)क्वचिदारोप्यमाणानां भिन्नाश्रयत्वेन संदेहो दृश्यते

सर्वे नगास्तमालीकृताः किमु खगाश्शिखीकृताः किं नु ।
जलदीकृता नु ककुभो विसृत्वरेणाच्युतद्युतिभरेण ॥





no sandeha

भगवन्नहिनगवसते जगदीशत्वे तवापि ये संदिहते ।
सत्त्वे तेषामेषां सत्त्वैकधना जनाः परं सन्दिहते ॥
Here there is no confusion because of similarity. Therefore it is not an example of Sandeha alankara even though it is somewhat beautiful.

सर्वस्वकार thinks that this is an example of आरोपमूलः संदेहालंकारः



विमर्शिनीकार classifies the Sandeha alankara in three types:
स्वरूपहेतुफलानां त्रिधा

1.स्वरूपसंदेहः

किं मरकतरुचिपूरैरपूरि किमलेपि हरिमणिमहोभिः ।
फणिशिखरिमन्दिरान्तरमिति संशयदं हरेर्जयति तेजः ॥
Here the confusion is about the form of the thing or person.

2.हेतुसन्देहः

स्मयसे यदिदं स्वामिन्‌ किं तन्मच्चरितचिन्तनादथवा ।
ईदृक्षरक्ष्यलाभात्किं वा मम दुर्लभेप्सितोद्योगात्‌ ॥
Here the confusion is about the cause.

3.फलसन्देहः

सुखदमिदमेव पदमिति सूचयितुं किंन्विदं हि परमपदम्‌ ।
इति कथयितुं नु पन्नगपतिगिरिपतिना करोsवनमितोsयम्‌ ॥
Here the confusion is about the ultimate outcome.





Another classification of
Sandeha alankara

A. अनुगामी धर्मः

किमियं गङ्गा न हरेर्मुखे भवेत्सा थवा किमु ज्योत्स्ना ।
सा पि तथैवेति जनाश्श्रीपतिहसितं विलोक्य संदिहते ॥


B.निर्दिष्टः

हरितोSध्यैष्ट गिरिः किं गिरितो वा हरिरिदं महौन्नत्यम्‌ ।
सर्वोन्नतावुभवपि दर्वीकरशैलतदधिपौ भवतः ॥


C.धर्मस्य पृथङ्निर्देशः

किं नखरुचिवलयं ज्वलदथवा दोस्तेजसां शिखावलयम्‌ ।
अरुणरुचि हरिकराब्जे निरुपममेतच्चकास्ति चक्रं वा ॥


D.बिम्बप्रतिबिम्बभावापन्नः

प्रतिबिम्बितरविबिम्बं हरिमणिशिखरं सकौस्तुभं च हरिम्‌ ।
मुनयो भिवीक्ष्य फणधरगिरिधरणौ नन्तुमेव सांशयिकाः ॥



सहविद्युन्नु तटित्वान्‌ सद्युमणिर्वा हरिन्मणीशिखरः ।
सकमल इति सन्दिदिहे समणिकिरीटस्सरीसृपगिरीन्दुः ॥



आकाशराजनृपतेरालयगर्भं तदा निरीक्ष्य नरैः ।
जलधेर्जठरं किमिदं कनकाचलसानु वेति सन्दिदिहे ॥



E.अनाहार्यः

किमु घनलग्ना सौरी मरीचिरथवेन्द्रनीलमणिखचिता ।
कुरुविन्दलतेति रमा हरिहृदयगता न केन वा शङ्कि ॥


F.आहार्यः

हरितोSध्यैष्ट गिरिः किं गिरितो वा हरिरिदं महौन्नत्यम्‌ ।
सर्वोन्नतावुभवपि दर्वीकरशैलतदधिपौ भवतः ॥


G.श्लेषात्मकः धर्मः

सिंहलसद्गोत्राकरभवनो यं किं महामहानीलः ।
उत भगवानिति कवयो प्यतिसांशयिका विलोक्य शौरे त्वाम्‌ ॥

सिंहल सद्गोत्र आकर भवन - महानील (गोत्र - भूः, the one who is extracted out of the good mines of Ceylone

सिंह लसत्‌ गोत्र आकर भवन - भगवान्‌ ( गोत्र - पर्वतः. the one who resides in the mountain which is shining bright as lion)


H.परम्परित

श्रुतिवनमदावलो वा लक्ष्मीवर्षाशिखावलो वा यम्‌।
दर्वीकरगिरिमणिमिति निर्वर्णयता जनेन संदिदिहे ॥



I.लक्ष्यः

लीलाजलरुहमचलाबालायाः करमपीक्षमाणस्य ।
दोलायते स्म हृदयं व्याकाद्रिपतेः करग्रहावसरे ॥



J.व्यङ्ग्यः

उत्सवगतस्स भगवानुदयन्तं भानुमन्तमभिवीक्ष्य ।
वक्षस्सहसा स्प्राक्षीदब्जाक्षस्स्वीयमहिधराध्याक्षः ॥


तिलकितनिजमुखवीक्षणकुतुकवतश्श्रीसखस्य नयनयुगम्‌ ।
यातायाताच्छ्रान्तं मुकुरे कमलाकपोलफलके च ।।