Sunday, January 9, 2011

ullekha alankara (उल्लेख अलङ्कार)

Definition:
ग्रहीतृभिरनेकैर्यदेकस्यानेकधा ग्रहः ।
रुच्यादिकारणवशात्तमुल्लेखं प्रचक्षते ॥
When different takers take one and the same thing differently, especially mentioned by words like रुचि, it is known as ullekha alankaara.



कनकाचलेश्वरकरे कनन्तमब्जं सुधांशुरिति चक्रम्‌ ।
दिनमणिरिति च विदित्वाsहर्षि चकोरैश्च चक्रवाकैश्च ॥
the Chakora and Chakravaaka got happy


वारिनिधेर्वात्सल्यं वारिजविपिनस्य विभवपौष्कल्यम्‌ ।
शौरेर्महिमौज्ज्वल्यं नारीरत्नं स्मरेयमनुकल्यम्‌ ॥


हरिमहिशिलोच्चयाग्रे विलोक्य मत्वा बलाहकोsयमिति ।
माद्यन्ति दन्तिनिवहा नृत्यन्ति कलापिनामपि कुलानि ॥



1. शुद्ध

आर्तो लक्ष्मीपतिरित्यर्थार्थी त्वां महावदान्य इति ।
जिज्ञासुर्ज्ञानमिति ज्ञानी तु शरण्य इति भजति भगवन्‌ ॥

(चतुर्विधा भजन्ते मां जनास्सुकृतिनो र्जुनः। आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ॥)
Here Arta worships Lord as Lakshmipati, the needy worships him as giver of wealth, the curious ones worship considering him knowledge and the learned ones worship him as the shelter.




2.संकीर्ण

a.समुदायात्मक उल्लेख

तावकपदनखरेखां मत्वेन्दुकलां नमन्मृडो मकुटम्‌ ।
स्पृशति निजमहिगिरीश्वर व्रजं मत्वेक्षते स्वकरमिन्द्रः ॥



b. अपह्नुत्यात्मक उल्लेख

वृषगिरिपतिं तमालं कतिचित्कतिचिद्वदन्तु हरिनीलम्‌ ।
ब्रूमो वयमतिवेलं पुञ्जितलक्ष्मीकटाक्षरुचिजालम्‌ ॥


c. सन्देहसंकीर्ण

तपनो वा ज्वलनो वेत्यरिललना वेत्ति तव करे चक्रम्‌ ।
स्वीयं लक्ष्मीस्तु हरे केयूरं वाsथ नूपुरं वेति ॥


d. रुपकसंकीर्ण उल्लेख / भ्रान्तिमत्संकीर्ण उल्लेख

अवरोधसद्म पद्मा मनुते भूमिर्निवासभूमिं त्वाम्‌ ।
नीला लीलाशालां नीलाचलमौलिलोलनीलमणे ॥


e. हेतूल्लेखो

दानात्कतिचन केचिद्गानान्नाम्नां विदुः प्रसदनं ते ।
ध्यानात्परे वयं तु श्रीनाथाकिंचनत्वविभवेन ॥


f. फलोल्लेख

विपदपहृतये दीनाश्श्रीदानायार्थलिप्सवो मनुजाः ।
वृद्धास्स्वबन्धमुक्त्यै तद्धाम वृषाद्रिभुवि वदन्त्युदितम्‌ ॥




द्वितीय उल्लेखः

Definition:
एकस्य विषयादीनामनेकत्वनिबन्धनम्‌ ।
नैकधात्वं ग्रहीत्रैक्येsप्युल्लेखस्सोपि संमतः ॥



1. शुद्धो

स्निग्धाः कौस्तुभरत्ने दिग्धाः कृपया त्र मयि हरौ मुग्धाः ।
दुग्धाम्बुराशिदुहितुस्स्रग्धारा इव जयन्ति दृग्धाराः ॥



हसिते सितमसितं रुच्येतं पुरुषं तथाम्बरे पीतम्‌ ।
शोणमधरे पुराणं करचरणतले रुणं श्रये शरणम्‌ ॥



2.संकीर्णो

a.उपमया संकीर्णः

मृगमदतिलकति निटिले मृगपतिगिरिनेतुरुरसि लाञ्छनति ।
भ्रामरति नाभीकमले कमलायाः प्रसृमरा कटाक्षरुचिः ॥



b. उपमासंकीर्णः काव्यलिङ्गशिरस्कः

मौक्तिकसि दन्तपङ्क्तौ नीलसि वालेषु विद्रुमस्यधरे ।
हीरसि नखेषु कमले सत्यं रत्नाकरात्मकजात्वमिति ॥


उरुयुगे रम्भासि श्रीर्नासायां तिलोत्तमाभिख्या ।
वैभवतो विश्वाची त्वमप्सरोज्यायसीति युक्तमिदम्‌ ॥



c.भ्रान्तिमता संकीर्णः

भक्तानां मन्दारा भवतप्तानाममूस्सुधाधाराः ।
नारायणगिरिनेतुर्दाराणां सन्तु मयि दृगासाराः ॥





केचित्तु सहचरानेकत्वप्रयुक्तमनेकविधत्वमप्युल्लेखमाहुः
गोपेषु गोपरूपो भूपेषु विभासि धन्विमूर्धन्यः ।
तापसयूधे तापस एको नेकाकृतिस्त्वमब्जाक्ष ॥



उल्लेखध्वनि

1.शुद्धोल्लेख

ननु नाथ मोहभुग्ना व्यसनविविग्ना विरोधिभिर्भग्नाः ।
उपतापैरपि रुग्णास्त्वां वीक्ष्यानन्दसंप्लवे मग्नाः ॥


2. संकीर्ण

अहिगिरिपरिसरधरणौ विहरति हरिनीलरुचिररुचि भवति ।
अनुगच्छन्ति करिण्यो ननु नृत्यन्ति च रमेश बर्हिण्यः ॥


3. द्वितीयस्य उल्लेखस्य ध्वनि

गगने विसृत्वरि ते स्थगयति ककुभां मुखानि तनुसुषमा ।
धरणौ तु विबुधतटिनीं परिरिप्सुर्भवति फणीगिरिसुरद्रो ॥

No comments:

Post a Comment